॥ परशुरामाष्टाविंशतिनामस्तोत्रम् ॥
ऋषिरुवाच- यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम्।त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम्॥1॥दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत्।तस्य नामानि पुण्यानि वच्मि ते पुरुषर्षभ॥2॥भू-भार-हरणार्थाय माया-मानुष-विग्रहः।जनार्दनांशसम्भूतः स्थित्युत्पत्तयप्ययेश्वरः॥3॥भार्गवो जामदग्न्यश्च पित्राज्ञापरिपालकः।मातृप्राणप्रदो धीमान् क्षत्रियान्तकरः प्रभु॥4॥रामः परशुहस्तश्च कार्तवीर्यमदापह।रेणुकादुःखशोकघ्नो विशोकः शोकनाशन॥5॥नवीन-नीरद-श्यामो रक्तोत्पलविलोचनः।घोरो दण्डधरो धीरो ब्रह्मण्यो ब्राह्मणप्रियस॥6॥तपोधनो महेन्द्रादौ न्यस्तदण्डः प्रणान्तधीः।उपगीयमानचरित-सिद्ध-गन्धर्व-चारणै॥7॥जन्म-मृत्यु-जरा-व्याधि दुःख शोक-भयातिग।इत्यष्टाविंशतिर्नाम्नामुक्ता स्तोत्रात्मिका शुभा॥8॥अनया प्रीयतां देवो जामदग्न्यो महेश्वरः।नेदं स्तोत्रमशान्ताय नादान्तायातपस्विने॥9॥नावेदविदुषे वाच्यमशिष्याय खलाय च।नासूयकायानृजवे न चाऽनिर्दिष्टकारिणे॥10॥इदं प्रियाय पुत्राय शिष्यायानुगताय च।रहस्यधर्मं वक्तव्यं नाऽन्यस्मै तु कदाचन॥11॥॥ इति परशुरामाष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ॥