- धर्म-संसार
» - व्रत-त्योहार
» - चैत्र नवरात्रि
॥ चण्डिकाष्टकम् ॥
सहस्रचन्द्रनित्दकातिकान्त-चन्द्रिकाचयै-दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः।कृतामलाऽवलाकलेवरं वरं भजामहेमहेशमानसाश्रयन्वहो महो महोदयम्॥1॥विशाल-शैलकन्दरान्तराल-वासशालिनींत्रिलोकपालिनीं कपालिनी मनोरमामिमाम्।उमामुपासितां सुरैरुपास्महे महेश्वरींपरां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम्॥2॥अये महेशि! ते महेन्द्रमुख्यनिर्जराः समेसमानयन्ति मूर्द्धरागत परागमंघ्रिजम्।महाविरागिशंकराऽनुरागिणीं नुरागिणीस्मरामि चेतसाऽतसीमुमामवाससं नुताम्॥3॥भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन्निचोल-लोलकुन्तलां स्वलोक-शोक-नाशिनीम्।अदभ्र-सम्भृतातिसम्भ्रम-प्रभूत-विभ्रम-प्रवृत-ताण्डव-प्रकाण्ड-पण्डितीकृतेश्वराम्॥4॥अपीह पामरं विधाय चामरं तथाऽमरंनुपामरं परेशिदृग्-विभाविता-वितत्रिके।प्रवर्तते प्रतोष-रोष-खेलन तव स्वदोष-मोषहेतवे समृद्धिमेलनं पदन्नाुमः॥5॥भभूव्-भभव्-भभव्-भभाभितो-विभासि भास्वर-प्रभाभर-प्रभासिताग-गह्वराधिभासिनीम्।मिलत्तर-ज्वलत्तरोद्वलत्तर-क्षपाकरप्रमूत-भाभर-प्रभासि-भालपट्टिकां भजे॥6॥कपोतकम्बु-काम्यकण्ठ-कण्ठयकंकणांगदा-दिकान्त-काश्चिकाश्चितां कपालिकामिनीमहम्।वरांघ्रिनूपुरध्वनि-प्रवृत्तिसम्भवद् विशेष-काव्यकल्पकौशलां कपालकुण्डलां भजे॥7॥भवाभय-प्रभावितद्भवोत्तरप्रभावि भव्यभूमिभूतिभावन प्रभूतिभावुकं भवे।भवानि नेति ते भवानि! पादपंकजं भजेभवन्ति तत्र शत्रुवो न यत्र तद्विभावनम्॥8॥दुर्गाग्रतोऽतिगरिमप्रभवां भवान्याभव्यामिमां स्तुतिमुमापतिना प्रणीताम्।यः श्रावयेत् सपुरुहूतपुराधिपत्यभाग्यं लभेत रिपवश्च तृणानि तस्य॥9॥रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ।शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः॥10॥॥ इति कविपत्युपनामक-श्री उमापतिद्विवेदि-विरचितं चण्डिकाष्टकं सम्पूर्णम् ॥