- धर्म-संसार
» - व्रत-त्योहार
» - चैत्र नवरात्रि
॥ ललितापंचरत्नम् ॥
प्रातः स्मरामि ललितावदनारविन्दंबिम्बाधं पृथुल-मौक्तिक-शोभिनासम्।आकर्णदीर्घनयनं मणिकुण्डलाढ्यंमन्दस्मितं मृगमदोज्ज्वल-भालदेशम्॥1॥प्रातर्भजामि ललिताभुजकल्पवल्लींरक्तांगुलीय-लसदंगुलि-पल्लवाढ्याम्।माणिक्य-हेम-बलयांगद-शोभमानांपुण्ड्रेक्षु-चाप-कुसुमषु-सृणीर्दधानाम्॥2॥प्रातर्नमामि ललिताचरणारविन्दंभक्तेष्टदाननिरतं भवसिन्धुपोतम्।पद्मासनादि-सुरनायक-पूजनीयंपद्मांकुश-ध्वज-सुदर्शन-लांछनाढ्यम्॥3॥प्रातः स्तुवे परशिवां ललितां भवानींत्रय्यन्तवेद्यविभवां करुणानवद्याम्।विश्वस्य सृष्टि-विलय-स्थितिहेतुभूतांविद्येश्वरीं निगमवांगमनसाविदूराम्॥4॥प्रातर्वदामि ललिते तव पुण्यनाम-कामेश्वरीति कमलेति महेश्वरीति।श्रीशाम्भवीति जगतां जननी परेतिवाग्देवतेति वचसा त्रिपुरेश्वरीति॥5॥यः श्लोकपंचकमिदं ललिताम्बिकायाःसौभाग्यदं सुललितं पठति प्रभाते।तस्मै ददाति ललिता झटिति प्रसन्नाविद्यां श्रियं विमलसौख्यमनन्तकीर्तिम्॥6॥॥ इति श्रीमच्छंकराचार्यप्रणीतं ललितापंचरत्नं सम्पूर्णम् ॥