॥ दुर्गासिद्धमन्त्रस्तोत्रम् ॥
विश्वेश्वरि! त्वं परिपासि विश्वंविश्वात्मिका धारयसीह विश्वम्।विश्वेशवन्धा भवती भवन्तिविश्वाश्चया ये त्वयि भक्तिनम्राः॥1॥देवि! प्रपन्नार्ति हरे! प्रसीदप्रसीद मातर्जगतोऽखिलस्य।प्रसीद विश्वेश्वरि! पाहि विश्वंत्वमीश्वरी देवि! चराऽचरस्य॥2॥दुर्गे स्मृता हरसि भीतिमशेषजन्तोःस्वस्थैः स्मृता मतिमतीव शुभां ददासि।दारिद्य्र-दुःखभय हारिणि का त्वदन्यासर्वोपकारकरणाय सदार्द्रचित्ता॥3॥विद्याः समस्तास्तव देवि! भेदाःस्त्रियः समस्ताः सकला जगत्सु।त्वयैकया पूरितमम्बयैत्का ते स्तुतिः स्तव्यपरा परोक्तिः॥4॥त्वं वैष्णवी शक्तिरनन्तवीर्याविश्वस्य बीजं परमाऽसि माया।सम्मोहितं देवि! समस्तमेतत्त्वं वै प्रसन्ना भुविमुक्तिहेतुः॥5॥सर्वमंगल-मांगल्ये शिवेसर्वार्थसाधिके!।शरण्ये त्रयम्बके! गौरि! नारायणि! नमोऽस्तुते॥6॥शरणागत-दीनार्त-परित्राण-परायणे!सर्वस्यार्तिंहरे देवि! नारायणि! नमोऽस्तुते॥7॥॥ इति श्रीमती पुष्पामिश्रासंकलित-दुर्गासिद्धमन्त्रस्तोत्रं सम्पूर्णम् ॥