॥ कृष्णसहस्रनामस्तोत्र ॥
ओम् :
कृष्णश्श्रीवल्लभश्शांर्गी विष्वक्सेनस्स्वसिद्धिदः।
क्षीरोदधामा व्यूहेशश्शेषशायी जगन्मयः॥1॥
भक्तिगम्यस्रीमूर्तिर्भा-रार्तवसुधास्तुतः।
देवदेवो दयासिन्धुर्देवदेवशिखामणिः॥2॥
सुखभावस्सुखाधारोमुकुन्दो मुदिताशयः।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान्॥3॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः॥4॥
वसुधायासहरणो नारदप्रेरणोन्मुखः।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः॥5॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः।
महागुहान्तर्निक्षिप्तः पुराण व पुरात्मवान्॥6॥
शूरवंशैकधीश्शौरिः कंसशंकाविषादकृत्।
वसुदेवोल्लसच्छक्ति-र्देवक्यष्टमगर्भगः॥7॥
वसुदेवसुतश्श्रीमान्देवकीनन्दनो हरिः।
आश्चर्यबालश्श्रीवत्स-लक्ष्मवक्षाश्चतुर्भुजः॥8॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः।
प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः॥9॥
शंखचक्रगदापद्मपाणिः पद्मनिभेक्षणः।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः॥10॥
पीतवासा घनश्यामः कुंचितांचितकुन्तलः।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः॥11॥
कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः॥12॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः॥13॥
महर्षिमानसोल्लासो महीमंगलदायकः।
सन्तोषितसुरव्रातः साधुुचित्तप्रसादकः॥14॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः।
पितृपाणिपरिष्कारो मोहितागाररक्षकः॥15॥
स्वशक्तयुद्धाटिताशेषकपाटः पितृवाहकः।
शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः॥16॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः।
कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः॥17॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः॥18॥
सुजातजातकर्म श्रीर्गोपीभद्रोक्तिनिर्वतः।
अलीकनिद्रोपगमः पूतनास्तनपीडनः॥19॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः।
विन्यस्तरक्षा गोधूलिर्यशोदाकरलालितः॥20॥
नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः।
बालः पर्यंकनिद्रालुर्मुखार्पितपदांगुलिः॥21॥
अंजनस्निग्धनयनः पर्यायांकुरितस्मितः।
लीलाक्षस्तरलालोकश्शटासुर भंजनः॥22॥
द्विजोदितस्वस्त्ययनो मंत्रपूतजलाप्लुतः।
यशोदोत्संगपर्यंको यशोदामुखवीक्षकः॥23॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः॥24॥
प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः।
व्यालम्बिचूलिकारत्नो घोषगोपप्रहर्षणः॥25॥
स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्जुलः।
पंकानुलेपरुचिरो मांसलोरुकटीतटः॥26॥
घृष्टजानुकरद्वंद्वः प्रतिबिम्बानुकारकृत्।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्नमः॥27॥
धात्रीकरसमालम्बी प्रस्खलचित्रचंक्रमः।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः॥28॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः।
विस्मारितान्यव्यापारो गोपीगोपीमुदावहः॥29॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः।
नवनीतमहाचोरो दारकाहारदायकः॥30॥
पीठोलूखलसोपानः क्षीरभाण्डविभेदनः।
शिक्य माण्डसमकर्षी ध्वान्तागारप्रवेशकृत॥31॥
भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः।
परागधूसराकारो मृद्भक्षणकृतेक्षणः॥32॥
बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः।
कृतसन्त्रासलोलाक्षो जननीप्रत्ययावहः॥33।
मातृदृश्यात्तवदनो वक्रलक्ष्यचराचरः।
यशोदाललितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः॥34॥
सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः॥35॥
मृषाकोप्रकम्पोष्ठो गोष्ठांगणविलोकनः।
दधिमन्थघटीभेत्ता किकिंणीक्काणसूचितः॥36॥
हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः।
जननीश्रमविज्ञाता दामबन्धनियंत्रितः॥37॥
दामाकल्पश्चलापांगो गाढोलूखलबन्धनः।
आकृष्टोलूखनोऽनन्तः कुबेरसुतशापिवत्॥।38॥
नारदोक्तिपरामर्शी यमलार्जुनभंजनः।
धनदात्मजसंघुष्टो नन्दमोचितबन्धनः॥39॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः।
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः॥40॥
प्रस्थानशकटारूढो वृन्दावनकृतालयः।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः॥41॥
क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः।
वृषवत्सानुकरणो वृषध्वानिविडम्बनः॥42॥
नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः।
उपात्तहं सगमनस्सर्वजन्तुरुतानुकृत्॥43॥
भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः।
बली बकासुरग्राही बकतालुप्रदाहकः॥44॥
भीतगोपार्भकाहूतो बकचंचुविदारणः।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः॥45॥
बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः।
क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽद्भुतः॥46॥
कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः।
सुमनोऽलंकृतशिराः स्वादुस्निग्धान्नशिक्यभृत्॥47॥
गुंजाप्रालम्बनच्छन्नः पिंछैरलकवेषकृत्।
वन्याशनप्रियश्श्रृंगरवाकारितवत्सकः॥48॥
मनोज्ञपल्लवोत्तं स्वपुष्पस्वेच्छात्तषट्पदः।
मंजुशिंजितमंजीरचरणः करकंकणः॥49॥
अन्योन्यशासनः कीड़ापटुः परमकैतवः।
प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः॥50॥
अघदानवसंहर्ता त्रजविघ्नविनाशनः।
व्रजसंजीवनश्श्रेयोनिधिर्दानवमुक्तिदः॥51॥
कालिन्दीपुलिनासीनस्सह भुक्तव्रजार्भकः।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः॥52॥
भुजसन्ध्यन्तरन्यस्त श्रृंगवेत्रश्शुचिस्मितः।
वामपाणिस्थदध्यन्नकबलः कलभाषणः॥53॥
अंगुव्व्यन्तरविन्यस्तफलः परमपावनः।
अदृश्यतर्णक्वान्वेषी वल्लवार्भकभीतिहा॥54॥
अदृष्ट वत्सपव्रातो ब्रह्मविज्ञातवैभवः।
गोवत्सवत्सपान्वेषी विराट्पुरुषविग्रहः॥55॥
स्वसंकल्पानुरूपार्थो वत्सवत्सपरूपधृक्।
यथावत्सक्रियारूपो यथास्थाननिवेशनः॥56॥
यथाव्रजार्भकाकारो गो गोपीस्तन्यपस्सुखी।
चिराद्वलोहितो दान्तो ब्रह्मविज्ञातवैभवः॥57॥
विचित्रशक्तिर्व्यालीन सृष्टगोवत्सवत्सपः।
ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः॥58॥
ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः।
निरुक्तं व्याकृतिर्व्यक्तो निरालम्बन भावनः॥59॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक्।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान्॥60॥
व्यापी वाप्यः कृपाकर्ता विचित्राचारसम्मतः।
छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः॥61॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः।
सकलावरणोपेतस्सर्वदेवो महेश्वरः॥62॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः।
कृष्णयादवगोपालो गोपालोकनहर्षितः॥63॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः।
ब्रह्मानन्दाश्रुधौतांघिर्लीलावैचित्र्यकोविदः॥64॥
बलभद्रैकहृदयो नामाकारितगोकुलः।
गोपालबालको भव्यो रज्युयज्ञोपवीतवान्॥65॥
वृक्ष्च्छायाहताशान्तिर्गोपोत्संगोपबर्हणः।
गोपसंवाहितपदो गोपव्यजनवीजितः॥66।
गोपगानसुखोन्निदः श्रीदामार्जितसौहृदः।
सुनन्दसुहृदेकात्मा सुबलप्राणरंजनः॥67॥
तालीवनकृतक्रीडो बलपातितधेनुकः।
गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः॥68॥
गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः।
प्रलम्बबाहुरुत्फुल्ल-पुण्डरीकावतंसकः॥69॥
विलासललितस्मेर-गर्भलीलावलोकनः।
स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक्॥70॥
वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः।
यमुनातटसंचारी विषार्तव्रजहर्षदः॥71॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः।
कालियाहिफणारंगनटः कालियमर्दनः॥72॥
नागपत्नीस्तुतिप्रीतो नानांवेषसमृद्धिकृत्।
अविष्वक्तदृगात्मेशः खदृगात्मस्तुतिप्रियः॥73॥
सर्वेश्वरस्सर्वगुणः प्रसिद्धस्सर्वसात्वतः।
अकुंठधामा चन्द्रार्कदृष्टि राकाशनिर्मलः॥74॥
अनिर्देश्य गतिर्नागवनितापतिभैक्षदः।
स्वांघिमुद्रांकनागेन्द्रमूर्धा कालियसंस्तुतः॥75॥
अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान्॥76॥
नागोपायनहृष्टात्मा हृदोत्सारितकालियः।
बलभद्रसुखालापो गोपालिंगननिर्वृतः॥77॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः।
नयनाच्छादनक्रीडालम्पटो नृपचेष्टितः॥78॥
काकपक्षधरस्सौम्यो बलवाहककेलिमान्।
बलघातितदुर्धर्षप्रलम्बो बलवत्सलः॥79॥
मुंजाटव्यग्निशमनः प्रावृट्कालविनोदवान्।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः॥80॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः।
नटवेषधरः पद्ममालांको गोपिकावृतः॥81॥
गोपीमनोहरापांगो वेणुवादनतत्परः।
विन्यस्तवदनाम्भोजश्चारुशब्दकृ ताननः॥82॥
बिम्बाधरार्पितोदारवेणुर्विश्वविमोहनः।
व्रजसंवर्णितश्श्राव्यवेणुनादश्श्रुतिप्रियः॥83॥
गो गोपगोपीजन्मेप्सुर्ब्रह्येन्द्राद्यभिवन्दितः।
गीतस्रुतिसरित्पूरो नादनर्तितबर्हिणः॥84॥
रागपल्लवितस्थाणुर्गीतानमितपादपः।
विस्मारिततृणग्रासमृगो मृगविलोभितः॥85॥
व्याघ्रादिहिं स्रसहजवैरहर्ता सुगायनः।
गाढोदीरितगोवृन्दप्रेमोत्कर्णिततर्णकः॥86॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्वन्दितः।
शाखोत्कर्णशकुन्तौघश्छत्रायितवलाहकः॥87॥
प्रसन्नः परमानन्दश्चित्रायितचरावरः।
गोपिकामदनो गोपीकुचकुंकुममुद्रितः॥88॥
गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापृहत्।
स्कन्धारोपितगोपस्रीवासाः कुन्दनिभस्मितः॥89॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः॥90॥
गोप्यंजलिविशेषार्थी गोपक्रीडाविलोभितः।
शान्तवासस्पुरद्गोपीकृतांजलिरघापहः॥91॥
गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः।
गोपस्रीवस्रदो गोपीचित्तचोरः कुतूहली॥92॥
वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवांछितः॥93॥
मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः।
द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः॥94॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहिता।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित्॥95॥
पितृप्रोक्तक्रियारूपशक्र यागनिवारणः।
शक्राऽमर्षकरश्शक्रवृष्टिप्रशमनोन्मुखः॥96॥
गोवर्धनधरो गोपगोवृन्दत्राणतत्परः।
गोवर्धनगिरिछत्रचंडदंड भुजार्गलः॥97॥
सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः॥98॥
स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः।
सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः॥99॥
कामधेनुपयः पूराभिषिक्तस्सुरभिस्तुतः।
धरांघ्रि रोषधीरोमा धर्मगोप्ता मनोमयः॥100॥
ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः।
ऐरावतकरानीतवियद्गंगाप्लुतो विभुः॥101॥
ब्रह्माभिषिक्तो गो गोप्ता सर्वलोकशुभंकरः।
सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः॥102॥
वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः।
वरुणानीतजनको गोपज्ञातात्मवैभवः॥103॥
स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः।
ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः॥104॥
शरच्चन्द्रविहारोत्कः श्रीपतिर्वशको क्षमः।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः॥105॥
गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः।
गोपिकामानहरणो गोपिकाशतयूथपः॥106॥
वैजयन्तीस्रगाकल्पो गोपिकामानवर्धनः।
गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः॥107॥
स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः॥108॥
गोपीचेलांचलासीनो गोपीनेत्राब्जषट्पदः।
रासक्रीडासमासक्तो गोपीमण्डलमण्डनः॥109॥
गोपीहेममणि श्रेणिमध्येन्द्रमणिरुज्जवलः।
विद्याधरेन्दुशापघ्नश्शंखचूडशिरोहरः॥110॥
शंखचूरशिरोरत्नसंप्रीणितबलोऽनघः।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः॥111॥
सरसस्सस्मितमुखस्सुस्थिरो विरहाकुलः।
संकर्षणार्पितप्रीतिरक्रूध्यानगोचरः॥112॥
अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः।
प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः॥113॥
सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः।
पुरुषश्च प्रधानात्मा विपर्यासविलोचनः॥114॥
मधुराजनसंवीक्ष्यो रजकप्रतिघातकः।
विचित्राम्बरसंवीतो मालाकारवरप्रदः॥115॥
कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः।
कुब्जांगरागसुरभिः कंसकोदण्डखण्डनः॥116॥
धीरः कुवलयापीडमर्दनः कंसभीतिकृत्।
दन्तिदन्तायुधो रंगत्रासको मल्लयुद्धवित्॥117॥
चाणूरहन्ता कंसारिर्देवकीहर्षदायकः।
वसुदेवपदानम्रः पितृबन्धविमोचनः॥118॥
उर्वीभयापहो भूप उग्रसेनाधिपत्यदः।
आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः॥119॥
आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः॥120॥
गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः।
हतपंचजनप्राप्त पांचजन्यो यमार्चितः॥121॥
धर्मराजजयानीतगुरुपुत्र उरुक्रमः।
गुरुपुत्रप्रदश्शास्ता मधुराजसभासदः॥122॥
जामदग्नयसमभ्यर्च्यो गोमन्तगिरिसंचरः।
गोमन्तदावशमनो गरुडानीत भूषणः॥123॥
चक्राद्यायुधसंशोभी जरासन्धमदापहः।
सृगालावनिवालघ्नस्सृगालात्मजराज्यपदः॥124॥
विध्वस्तकालयवनो मुचुकुन्दवरप्रदः।
आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः॥125॥
द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः।
रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः॥126॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः॥127॥
बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित्।
धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः॥128॥
षट्चक्र शक्तिनिर्जेता भूतबेतालमोहकृत्।
शम्भुत्रिशूलजिच्छम्भुजम्भणश्शंम्भुसंस्तुतः॥129॥
इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः।
हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः॥130॥
आत्मज्ञाननिधिर्मेधा कोशस्तन्मात्ररूपवान्।
इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाद वगः॥131॥
तुरीयसर्वधीसाक्षी द्वन्द्वारामात्मदूरगः।
अज्ञातपारो वश्यश्रीरव्याकृतविहारवान्॥132॥
आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः।
बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः॥133॥
अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः।
जलेशविजयी वीरस्सत्राजिद्रत्नयाचकः॥134॥
प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः।
जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः॥135॥
सत्यभामाप्रियः कामश्शतधन्वशिरोहरः।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः॥136॥
कैकयीरमणो भद्राभर्ता नाग्नजितीधवः।
माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः॥137॥
सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः॥138॥
सुरपाशावृत्तिच्छेदी मुरारिः क्रूरयुद्धवित्।
पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः॥140॥
गुणग्राही गुणद्रष्टा गूढस्वात्मा विभूतिमान्।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः॥141॥
प्रपन्नपालनो माली महद् ब्रह्मविवर्धनः।
वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः॥142॥
स्वयम्प्र भुरनिर्वेद्यस्स्वप्रकाशश्चिरन्तनः।
नादात्मा मन्त्रकोटीशो नानावादनिरोधकः॥143॥
कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः।
अमरीकृतदेवौघः कन्यकाबन्धमोचनः॥144॥
षोडशस्रीसहस्रेशः कान्तः कान्तामनोभवः।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः॥145॥
शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्धुष्टचेष्टनः॥146॥
पुराणस्संयमी जन्मालिप्तः षड्विंशकोऽर्थदः।
यशस्यनीतिराद्यन्तरहितस्सत्कथाप्रियः॥147॥
ब्रह्मबोधः परानन्दः पारिजातापहारकः।
पौण्ड्रकप्राणहरणः काशिराजनिषूदनः॥148॥
कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः।
हंसविध्वंसनस्साम्बजनको डिंम्भकार्दनः॥149॥
मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः॥150॥
सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्दिभेदनः।
आत्मप्रकाशः पूर्ण श्रीरादिनारायणेक्षितः॥151॥
विप्रपुत्रप्रदश्चैव सर्वमात्रसुतप्रदः।
पार्थविस्मयकृत्पार्थ प्रणवार्थ प्रबोधनः॥152॥
कैलासयात्रासुमुखो बदर्या श्रमभूषणः।
घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः॥153॥
मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः।
तपश्चर्यापरश्चीरवासाः पिंगजटाधरः॥154॥
प्रत्यक्षीकृतभूतेशश्शिवस्तोता शिवस्तुतः।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः॥155॥
बलसंरम्भशमनो बलदर्शितपाण्डवः।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः॥156॥
सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः।
खाण्डवप्रीणितार्चिष्मान्मयदानवमोचनः॥157॥
सुलभो राजसूयार्ह युधिष्ठिरनियोजकः।
भीमार्दितजरासन्धो मागधात्मजराज्यदः॥158॥
राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः।
चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः॥159॥
सर्वात्मार्थसमाहर्ता मन्दराचलधारकः।
यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः॥160॥
बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः।
दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः॥161॥
सर्वावताराधिष्ठाता वेदबाह्यविमोहनः।
कलिदोषनिराकर्ता दशनामा दृढव्रतः॥162॥
अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः।
द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः॥163॥
नारायणो मधुपतिर्माधवो दोषवर्जितः।
गोविंदः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः॥164॥
त्रिविक्रमस्त्रिलोकेशो वामनश्श्रीधरः पुमान्।
हृषीकेशो वासुदेवः पद्मनाभो महाहृदः॥165॥
दामोदरश्चतुर्व्यूहः पांचालीमानरक्षणः।
साल्वघ्नस्समरश्लाघी दन्तवक्रनिबर्हणः॥166॥
दामोदरप्रियसखा पृथुकास्वादनप्रियः॥
घृणी दामोदरश्श्रीदो गोपीपुनरवेक्षकः॥167॥
गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी॥168॥
पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत्।
विदुरातिथ्यसन्तुष्टः कुन्तीसन्तोषदायकः॥169॥
सुयोधनतिरस्कर्ता दुर्योधनविकारवित्।
विदुराभिष्ठुतो नित्यो वार्ष्णेयो मंगलात्मकः॥170॥
पंचविंशतितत्वेशश्चतुर्विंशतिदेह भाक्।
सर्वानुग्राहकस्सर्वदाशार्ह सततार्चितः॥171॥
अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः।
मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता॥172॥
उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः।
ब्रह्मण्यदेवश्श्रुतिमान्गोब्राह्मणहिताशयः॥173॥
वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान्।
स्वभावशुद्धस्सन्मित्रस्सुशरण्यस्सुलक्षणः॥174॥
धृतराष्ट्र गतो दृष्टिप्रदः कर्णविभेदनः।
प्रतोदधृग्विश्वरूपविस्मारितधनंजयः॥175॥
सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः॥176॥
ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत्।
अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः॥177॥
सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः।
अकालसन्ध्याघटनश्चक्रान्तरितभास्करः॥178॥
दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः।
सिन्धुराजशिरः पातस्थानवक्ता विवेकद्दक्॥179॥
सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः।
पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः॥180॥
अंगुष्ठाक्रान्तकौन्तेयरथश्शक्तोऽहिशीर्षजित्।
कालकोपप्रशमनो भीमसेनजयप्रदः॥181॥
अश्वत्थामवधायासत्रातपाण्डुसुतः कृती।
इषीकास्त्रप्रशमनो द्रौणिरक्षाविचरणः।182॥
पार्थापहारितद्रौणिचूडामणिरभंगुरः।
धृतराष्ट्र परामृष्ट भीमप्रतिकृतिस्मयः॥183॥
भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः।
गदाग्रजन्मा पांचालीप्रतिज्ञापरिपालकः॥184॥
गान्धारीकोपद्दग्गुप्तधर्मसूनुरनामयः।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यधावहः॥185॥
शान्तश्शान्तनवोदीर्ण सर्वधर्मसमाहितः।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित्॥186॥
प्रसादपरमोदारो गांगेयसुगतिप्रदः।
विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः॥187॥
जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः।
विहितार्थाप्तसत्कारो मासकात्परिवर्तदः॥188॥
उत्तंकहर्षदात्मीयदिव्यरूपप्रदर्शकः।
जनकावगतस्वोक्त भारतस्सर्व भावनः॥189॥
असोढयादवोद्रेको विहिताप्तादिपूजनः॥
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः॥190॥
मुनिशापायुधः पद्मासनादित्रिदशार्थितः।
वृष्टिप्रत्यवहारोत्कस्स्वधामगमनोत्सुकः॥191॥
प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत्।
सर्वयादवसंसेव्यस्सर्वोत्कृष्टपरिच्छदः॥192॥
वेलाकाननसंचारी वेलानिलहृतश्रमः।
कालात्मा यादवोऽनन्तस्स्तुतिसन्तुष्टमानः॥193॥
द्विजालोकनसन्तुष्टः पुण्यतीर्थमहोत्सवः।
सत्काराह्लादिताशेषभूसुरस्सुरवल्लभः॥194॥
पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः।
विप्रसात्कृत गोकोटिश्शत कोरिसुवर्णदः॥195॥
स्वमायामोहिताऽशेषवृष्णिवीरो विशेषवित्।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः॥196॥
देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः।
स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः॥197॥
ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः॥198॥
व्याधेषुविद्धपूज्यांघ्रिर्निषादभयमोचनः।
पुलिन्दस्तुतिसन्तुष्टः पुलिन्दसुगतिप्रदः॥199॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता।
दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः॥200॥
पुराणः परमेशानः पूर्णभूमा परिष्टुतः।
पतिराद्यः परं ब्रह्म परमात्मा परात्परः॥201॥
श्रीपरमात्मा परात्परः ओं नमः इति-
इदं सहस्रं कृष्णस्य नाम्नां सर्वार्थदायकम्।
अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे॥202॥
तेन प्रोक्तं वसिष्ठाय ततो लब्ध्वा पराशरः।
व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान्॥203॥
तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे।
कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः॥204॥
इदं पठति भक्त्या यश श्रृणोति च समाहितः।
स्वसिद्ध्यै प्रार्थयं त्येनं तीर्थक्षेत्रादिदेवताः॥205॥
प्रायश्चित्तान्यशेषाणि नालं यानि व्यपोहितुम्।
तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात्॥206॥
ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः।
ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन्॥207॥
इदं नामसहस्रं यः पठत्येच्छृणोति च।
शिवलिंगसहस्रस्य स प्रतिष्ठाफलं लभेत्॥208॥
इदं किरीटी संजप्य जयी पशुपतास्त्रभाक्।
कृष्णस्य प्राणभूतस्सन् कृष्णं सारथिमाप्तवान्॥209॥
द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया।
दुरितानि जितान्येतज्जपादाप्तं च वांछितम्॥210॥
किमिदं बहुना शंसन्मानवो मोदनिर्भरः।
ब्रह्मानन्दमवाप्यान्ते कृष्णसायुज्यमाप्युयात्॥211॥

॥ कृष्णसहस्रनामस्तोत्रं संपूर्णम् ॥