- डॉ. मनस्वी श्रीविद्यालंकार
स्वयं भुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि । स्वात्मनैव तथोद्भूदवृत्तयेऽचिन्त्यवृत्तये ॥1॥
नमस्ते जगतां पत्ये लक्ष्मीभर्त्रे नमोऽस्तु ते । विदांवर नमस्तुभ्यं नमस्ते वदतांवर ॥2॥
कर्मशत्रुहणं देवमामनन्तिमनीषिणः । त्वमानमत्सुरेण्मौलि-भा-मालाभ्यर्चिंत-क्रसम् ॥3॥
ध्यान-दुर्घण-निभिन्न-घन-घाति महातरुः । अनन्त-भव-सन्तान-जयादासीरनन्तजित् ॥4॥
त्रैलोक्य-निर्जयावास-दुर्दर्प्पमतिदुर्जयम् । मृत्युराजं विजित्यासीज्जिन मृत्युंजयो भवान् ॥5॥
विधूताशेष-संसार-बन्धनो भव्य-बान्धवः । त्रिपुरारिस्त्वमीशोऽसि जन्म-मृत्युजरान्तकृत् ॥6॥
त्रिकाल-विजयाशेष-तत्वभेदात् त्रिधोत्थितम् । केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशिता ॥7॥
त्वामन्धकान्तकं प्राहुर्मोहान्धासुर-मर्द्दनात् । अर्द्ध ते नारयो यस्मादर्धनारीश्वरोऽस्यतः ॥8॥
शिवः शिव-पदाध्यासाद् दुरितारि-हरो हरः । शंकरः कृतशं लोके शम्भवस्त्वं भवन्सुखे ॥9॥
वृषभोऽसि जगज्जेयेष्ठः पुरुः पुरु-गुणोदयै । नाभेयो नाभि-सम्भूतेरिक्ष्वाकु-कुल-नन्दनः ॥10॥
|