मुख्य पृष्ठ > धर्म-संसार > धर्म-दर्शन > जैन धर्म
सुझाव/प्रतिक्रियामित्र को भेजियेयह पेज प्रिंट करें
 
॥ श्री जिन सहस्त्रनाम स्तोत्र ॥
प्रस्तावना पाठ
- डॉ. मनस्वी श्रीविद्यालंकार

स्वयं भुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि ।
स्वात्मनैव तथोद्भूदवृत्तयेऽचिन्त्यवृत्तये ॥1॥

नमस्ते जगतां पत्ये लक्ष्मीभर्त्रे नमोऽस्तु ते ।
विदांवर नमस्तुभ्यं नमस्ते वदतांवर ॥2॥

कर्मशत्रुहणं देवमामनन्तिमनीषिणः ।
त्वमानमत्सुरेण्मौलि-भा-मालाभ्यर्चिंत-क्रसम्‌ ॥3॥

ध्यान-दुर्घण-निभिन्न-घन-घाति महातरुः ।
अनन्त-भव-सन्तान-जयादासीरनन्तजित्‌ ॥4॥

त्रैलोक्य-निर्जयावास-दुर्दर्प्पमतिदुर्जयम्‌ ।
मृत्युराजं विजित्यासीज्जिन मृत्युंजयो भवान्‌ ॥5॥

विधूताशेष-संसार-बन्धनो भव्य-बान्धवः ।
त्रिपुरारिस्त्वमीशोऽसि जन्म-मृत्युजरान्तकृत्‌ ॥6॥

त्रिकाल-विजयाशेष-तत्वभेदात्‌ त्रिधोत्थितम्‌ ।
केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशिता ॥7॥

त्वामन्धकान्तकं प्राहुर्मोहान्धासुर-मर्द्दनात्‌ ।
अर्द्ध ते नारयो यस्मादर्धनारीश्वरोऽस्यतः ॥8॥

शिवः शिव-पदाध्यासाद् दुरितारि-हरो हरः ।
शंकरः कृतशं लोके शम्भवस्त्वं भवन्सुखे ॥9॥

वृषभोऽसि जगज्जेयेष्ठः पुरुः पुरु-गुणोदयै ।
नाभेयो नाभि-सम्भूतेरिक्ष्वाकु-कुल-नन्दनः ॥10॥
1 | 2 | 3 | 4 | 5  >>  
और भी
॥ परमर्षि स्वस्ति मंगलपाठ॥
॥ स्वस्ति मंगल पाठ ॥
॥ पूजा-प्रतिज्ञा पाठ ॥
श्री जी मैं थाने पूजन आयो
चंद्रप्रभु मंदिर
शिलालेख