ओं जय जय जय। नमोस्तु नमोस्तु नमोस्तु। णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं॥1॥
ओं ह्रीं अनादि-मूल-मंत्रेभ्यो नमः। पुष्पांजलिं क्षिपामि।
चत्तारि मंगलं-अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं। चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा साहू लोगुत्तमा, केवलिपण्णतो धम्मो लोगुत्तमा॥ चत्तारि सरणं पव्वज्जामि, अरिहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि, केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि॥
ओं नमोऽर्हते स्वाहा, पुष्पांजलिं क्षिपामि।
मंगल-विधान : अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा। ध्यायेत्पंच-नमस्कारं सर्वपापैः प्रमुच्यते॥1॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः ॥2॥
अपराजित-मंत्रोऽयं सर्व-विघ्न-विनाशनः। मंगलेषु च सर्वेषु प्रथमं मंगलं मतः ॥3॥
एसो पंच-णमोयारो सव्व-पावप्पणासणो। मंगलाणं च सव्वेसिं पढमं होइ मंगलं ॥4॥
अर्हमित्यक्षरं ब्रह्मवाचकं परमेष्ठिनः। सिद्धचक्रस्य सद्बीज सर्वतः प्रणमाम्यहं॥5॥
कर्माष्टकं-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनं। सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहं॥6॥
विघ्नौघाः प्रलयं यान्ति शाकिनी-भूत-पन्नगाः। विषं निर्विषतां याति स्तूयमाने जिनेश्वरे॥7॥ (पुष्पांजलिं क्षिपामि)
|