भो भो भव्या! श्रृणुत वचनं, प्रस्तुतं सर्वमेतद्, ये यात्रायां त्रि-भुवन गुरो-रार्हता! भक्ति-भाजः! तेषां शांतिर्भवतु भवतामर्हदादिप्रभावा, दारोग्य-श्री धृति-मति-करी क्लेशविंध्वंस- हेतुः ॥1॥
भो भो भव्यलोकाः इह हि भरतैरावतविदेहसंभवानां समस्ततीर्थकृतां जन्मन्यासन-प्रकम्पानन्तर-मवधिना विज्ञाय, सौधर्माधिपतिः सुघोषा घण्टा-चालनानन्तरं सकल-सुराऽसुरेन्द्रैः सह समागत्य सविन-मर्हद् भट्टारकं गृहीत्वा, गत्वा कनकाद्रिश्रृंगे विहितजन्माभिषेकः शांतिमुद्घोषयति यथा, ततोऽहम् कृतानुकारमिति कृत्वा महाजनो येन गतः स पन्था, इति भव्यजनैः सहसमेत्य, स्नात्रपीठे स्नात्रं विधाय, शांतिमुद्घोषयामि, तत् पूजा-यात्रा स्नात्रादि-महोत्सवानन्तरमिति कृत्वा कर्णं दत्वा निशम्यतां निशम्यतां स्वाहा॥
ॐ पुण्याऽहं पुण्याऽहं, प्रीयन्ता प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिनस्त्रिलोक नाथास्त्रिलोक-महतास्त्रिलोकपूज्या-स्त्रिलोकेश्वरा-स्त्रिलोकोद्योतकराः ॥
ॐ ऋषभ-अजित-संभव-अभिनंदन-सुमति पद्मप्रभ-सुपार्श्व-चंद्रप्रभ- सुविधि-शीतल-श्रेयांस-वासुपूज्य-विमल-अनन्त-धर्म-शांति-कुन्थु-अर- मल्लि-मुनिसुब्रत नमि-नेमि-पार्श्व-वर्धमानान्ता जिनाः शांताः शांतिकरा भवन्तु स्वाहा ॥
ॐ मुनयो मुनि-प्रवरा रिपु-विजय-दुर्भिक्ष-कान्तारेषु दुर्ग-मार्गेषु रक्षन्त वो नित्यं स्वाहा ॥ ॐ ह्रीं श्री-धृति-मति-कीर्ति-कान्ति-बुद्धि-लक्ष्मी-मेधा-विद्या-साधन-प्रवेश- निवेशनेषु सुगृहीतनामानोज़यन्तु ते जिनेन्द्राः ॥
ॐ रोहिणी-प्रज्ञप्ति-वज्र श्रृंखला-वज्रांकुशी अप्रतिचक्रा-पुरुषदत्ता-काली- महाकाली-गौरी-गान्धारी-सर्वास्त्रामहाज्वाला-मानवी-वैरोठ्या-अच्छुप्ता- मानसी-महामानसी षोडश विद्या-देव्यो रक्षन्तु वो नित्यं स्वाहा ॥
ॐ आचार्योपाध्याय-प्रभृति-चातुर्वर्णस्यं श्री श्रमणसंघस्य शांतिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु ॥
|