ऋषिरुवाच- यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम्। त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम्॥1॥ दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत्। तस्य नामानि पुण्यानि वच्मि ते पुरुषर्षभ॥2॥ भू-भार-हरणार्थाय माया-मानुष-विग्रहः। जनार्दनांशसम्भूतः स्थित्युत्पत्तयप्ययेश्वरः॥3॥ भार्गवो जामदग्न्यश्च पित्राज्ञापरिपालकः। मातृप्राणप्रदो धीमान् क्षत्रियान्तकरः प्रभु॥4॥ रामः परशुहस्तश्च कार्तवीर्यमदापह। रेणुकादुःखशोकघ्नो विशोकः शोकनाशन॥5॥ नवीन-नीरद-श्यामो रक्तोत्पलविलोचनः। घोरो दण्डधरो धीरो ब्रह्मण्यो ब्राह्मणप्रियस॥6॥ तपोधनो महेन्द्रादौ न्यस्तदण्डः प्रणान्तधीः। उपगीयमानचरित-सिद्ध-गन्धर्व-चारणै॥7॥ जन्म-मृत्यु-जरा-व्याधि दुःख शोक-भयातिग। इत्यष्टाविंशतिर्नाम्नामुक्ता स्तोत्रात्मिका शुभा॥8॥ अनया प्रीयतां देवो जामदग्न्यो महेश्वरः। नेदं स्तोत्रमशान्ताय नादान्तायातपस्विने॥9॥ नावेदविदुषे वाच्यमशिष्याय खलाय च। नासूयकायानृजवे न चाऽनिर्दिष्टकारिणे॥10॥ इदं प्रियाय पुत्राय शिष्यायानुगताय च। रहस्यधर्मं वक्तव्यं नाऽन्यस्मै तु कदाचन॥11॥
॥ इति परशुरामाष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ॥
|