सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्रांगण-रिंगल-लोलमनायासं परमायासम्। मायाकल्पित-नानाकारमनाकारं भुवनाकारं क्ष्माया नाथमनाथं प्रणमत गोविंद परमानन्दम्॥1॥ मृत्स्नामत्सीहेति यशोदाताडन-शैशव-सन्त्रासं व्यादित-वक्त्रालोकित-लोकालोक-चतुर्दशलोकालिम्। लोक्त्रयपुरमूलस्तम्भं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविंदं परमानन्दम्॥2॥ त्रैविष्टप-रिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं कैवल्यं नवनीताहारमनाहारं भुवनाहारम्। वैमल्य-स्फुटचेतोवृत्ति-विशेषाभासमनाभासं शैवं केवलशान्तं प्रणमत गोविंदं परमानन्दम्॥3॥ गोपालं भूलीलाविग्रहगोपालं कुलगोपालम्। गोपीखेलन-गोवर्धन-धृतिलीलालालित-गोपालम्। गोभिर्निगदित-गोविंद-स्फुटनामानं बहुनामान गोपीगोचरदूरं प्रणमत गोविंदं परमानन्दम्॥4॥ गोपीमण्डलगोष्ठीभेदं भेदावस्थामभेदाभं शश्वद्गोखुर-निर्धूतोत्कृत-धूलीधूसर-सौभाग्यम्। श्रद्धाभक्ति-गृहीतानन्दमचिन्त्यं चिन्तितसद्भावं चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्॥5॥ स्नानव्याकुल-योषिद्वस्त्रमुपादायागमुपारूढं व्यादित्सन्तीरथ दिग्वस्त्राद्युपदातुमुपाकर्षन्तम्। निर्धूतद्वय-शोक-विमोहं बुद्धं बुद्धेरप्यन्तस्थं सत्तामात्रशरीरं प्रणमत गोविंदं परमानन्दम्॥6॥ कान्तं कारणकारणमादिमनादिं कालमनाभासं कालिन्दीगत-कालियशिरसि मुहुर्नृत्यन्तं सुनृत्यन्तम्। कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्॥7॥ वृंदावनभुवि वृंदारकगणवृन्दाराधित वन्देऽहं कुन्दाभामल-मन्दस्मेर-सुधानन्दं सुहृदानन्दम्। वन्द्याशेष-महामुनिमानस-वन्द्यं वृन्दपदद्वन्द्वं वन्द्योशेषगुणाब्धिं प्रणमत गोविंद परमानन्दम्॥8॥ गोविन्दाष्टकमेतदधीते गोविंदार्पितचेता यो गोविंदाच्युत माधव विष्णो गोकुल नायक कृष्णेति। गोविंदांघ्रिसरोज-ध्यानसुधाजल-धौतसमस्ताधो गोविन्दं परमानन्दामृतमन्तःस्थं स समभ्येति॥9॥
॥ इति श्रीमच्छंकराचार्यविरचितं गोविन्दाष्टकं समाप्तम् ॥
|