- कविवर भागचंद
शिखरिणी छंद : यदीये चैतन्ये मुकुर इव भावाश्चिदचितः समं भान्ति ध्रौव्य व्यय-जनि-लसन्तोऽन्तरहिताः। जगत्साक्षी मार्ग-प्रकटन परो भानुरिव यो महावीर-स्वामी नयन-पथ-गामी भवतु में॥1॥
अताम्रं यच्चक्षुः कमल-युगलं स्पन्द-रहितं जनान्कोपापायं प्रकटयति वाभ्यन्तरमपि। स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला महावीर-स्वामी नयन-पथ-गामी भवतु मे॥2॥
नमन्नाकेंद्राली-मुकुट-मणि-भा जाल जटिलं लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम्। भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि महावीर स्वामी नयन-पथ-गामी भवतु मे॥3॥
यदर्च्चा-भावेन प्रमुदित-मना दर्दुर इह क्षणादासीत्स्वर्गी गुण-गण-समृद्धः सुख-निधिः। लभन्ते सद्भक्ताः शिव-सुख-समाजं किमुतदा महावीर-स्वामी नयन-पथ-गामी भवतु मे॥4॥
कनत्स्वर्णाभासोऽप्यपगत-तनुर्ज्ञान-निवहो विचित्रात्माप्येको नृपति-वर-सिद्धार्थ-तनयः। अजन्मापि श्रीमान् विगत-भव-रागोद्भुत-गतिर् महावीर-स्वामी नयन-पथ-गामी भवतु मे॥5॥
यदीया वाग्गंगा विविध-नय-कल्लोल-विमला बृहज्ज्ञानाभ्भोभिर्जगति जनतां या स्नपयति। इदानीमप्येषा बुध-जन-मरालै परिचिता महावीर-स्वामी नयन-पथ-गामी भवतु मे॥6॥ |