॥ गणेश पञ्चरत्नम् ॥

मुदा करात्तमोदकं सदा विमुक्तिसाधकंकलाधरावतम्सकं विलासिलोकरक्षकम्।अनायकैक नायकं विनाशितेभदैत्यकंनताशुभाशुनाशकं नमामि तं विनायकम्॥१॥नतेतरातिभीकरं नवोदितार्कभास्वरंनमत्सुरारिनिर्जरं नताधिकापदुद्वरम्।सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरंमहेश्वरं तमाश्रये परात्परं निरन्तरम्॥२॥समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरंदरेतरोदरं वरं वरेभवक्त्रमक्षरम्।कृपाकरं क्षमाकरं मुदाकरं यशस्करंमनस्करं नमस्कृतां नमस्करोमि भास्वरम्॥३॥अकिञ्चनार्तिमार्जनं चिरन्तनोक्ति भाजनंपुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।प्रपञ्चनाशभीषणं धनञ्जयादि भूषणंकपोलदानवारणं भजे पुराणवारणम्॥४॥नितान्तकान्त दन्तकान्ति मन्तकान्तकात्मजंअचिन्त्यरूप मन्तहीन मन्तराय कृन्तनम्।हृदन्तरे निरन्तरं वसन्तमेव योगिनांतमेकदन्तमेव तं विचिन्तयामि सन्ततम्॥५॥महागणेश पञ्चरत्नमादरेण योऽन्वहंप्रजल्पति प्रभातके हृदिस्मरन्गणेश्वरम्।अरोगतामदोषतां सुसाहितीं सुपुत्रतांसमाहितायुरष्टभूतिमभ्युपैति सोऽचिरात्॥ संबंधित जानकारी खोजें
यह भी खोजें:
गणेष चतुर्थी, गणेश चतुर्थी, गणेश गणेश, गणेश उत्सव, गणेशोत्सव, Ganesh Utsav 2009, Ganesh Chaturthi 2009, Ganesh Utsav, Ganeshotsav, Ganesh Chaturthi Festival, Ganeshotsav 2009, Ganesh Chaturthi Celebrations, Ganes