सहस्रचन्द्रनित्दकातिकान्त-चन्द्रिकाचयै- दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः। कृतामलाऽवलाकलेवरं वरं भजामहे महेशमानसाश्रयन्वहो महो महोदयम्॥1॥
विशाल-शैलकन्दरान्तराल-वासशालिनीं त्रिलोकपालिनीं कपालिनी मनोरमामिमाम्। उमामुपासितां सुरैरुपास्महे महेश्वरीं परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम्॥2॥
अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे समानयन्ति मूर्द्धरागत परागमंघ्रिजम्। महाविरागिशंकराऽनुरागिणीं नुरागिणी स्मरामि चेतसाऽतसीमुमामवाससं नुताम्॥3॥
भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन् निचोल-लोलकुन्तलां स्वलोक-शोक-नाशिनीम्। अदभ्र-सम्भृतातिसम्भ्रम-प्रभूत-विभ्रम- प्रवृत-ताण्डव-प्रकाण्ड-पण्डितीकृतेश्वराम्॥4॥
अपीह पामरं विधाय चामरं तथाऽमरं नुपामरं परेशिदृग्-विभाविता-वितत्रिके। प्रवर्तते प्रतोष-रोष-खेलन तव स्वदोष- मोषहेतवे समृद्धिमेलनं पदन्नाुमः॥5॥
भभूव्-भभव्-भभव्-भभाभितो-विभासि भास्वर- प्रभाभर-प्रभासिताग-गह्वराधिभासिनीम्। मिलत्तर-ज्वलत्तरोद्वलत्तर-क्षपाकर प्रमूत-भाभर-प्रभासि-भालपट्टिकां भजे॥6॥
कपोतकम्बु-काम्यकण्ठ-कण्ठयकंकणांगदा- दिकान्त-काश्चिकाश्चितां कपालिकामिनीमहम्। वरांघ्रिनूपुरध्वनि-प्रवृत्तिसम्भवद् विशेष- काव्यकल्पकौशलां कपालकुण्डलां भजे॥7॥
भवाभय-प्रभावितद्भवोत्तरप्रभावि भव्य भूमिभूतिभावन प्रभूतिभावुकं भवे। भवानि नेति ते भवानि! पादपंकजं भजे भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम्॥8॥
दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या भव्यामिमां स्तुतिमुमापतिना प्रणीताम्। यः श्रावयेत् सपुरुहूतपुराधिपत्य भाग्यं लभेत रिपवश्च तृणानि तस्य॥9॥
रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ। शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः॥10॥
॥ इति कविपत्युपनामक-श्री उमापतिद्विवेदि-विरचितं चण्डिकाष्टकं सम्पूर्णम् ॥
|