शुक्रवार, 19 अप्रैल 2024
  • Webdunia Deals
  1. धर्म-संसार
  2. »
  3. व्रत-त्योहार
  4. »
  5. चैत्र नवरात्रि
Written By WD

॥ श्रीगायत्री-कवचम्‌ ॥

॥ श्रीगायत्री-कवचम्‌ ॥ -
WDWD


विनियोग
अस्य श्री गायत्रीकवचस्तोत्रमन्त्रस्य ब्रह्म-विष्णु-महेश्वरा ऋषय;, ऋग,-यजुः-सामा-ऽथर्वाणि छन्दांसि, परब्रह्मस्व-रूपिणी गायत्री देवता तद्बीजम्‌, भर्गः शक्तिः, धियः कीलकम्‌, मोक्षार्थे जपे विनियोगः ।

न्यास
ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः, ॐ वरेण्यं विष्णवात्मने शिरसे स्वाहा, ॐ भर्गोदेवस्य रुद्रात्मने शिखायै वषट्, ॐ धीमहि ईश्वरात्मने कवचाय हुम्‌ ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट्, ॐ प्रचोदयात्‌ परब्रह्मतत्त्वात्मने अस्त्राय फट् ।

ध्यानम्‌
मुक्ता-विद्रुम-हेम-नील धवलच्छायैर्मुखस्त्रीक्षणै-
र्युक्तामिन्दुकला-निबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम्‌ ।
गायत्रीं वरदा-ऽभयः-ड्कुश-कशाः शुभ्रं कपालं गुण।
शंख, चक्रमथारविन्दुयुगलं हस्तैर्वहन्तीं भजे ॥

कवचम्‌
गायत्री पूर्वत पातु सावित्री पातु दक्षिणे ।
ब्रह्मसन्ध्या तु मे पश्चादुत्तरस्यां सरस्वती ॥1॥

पावकीं च दिशं रक्षेत्‌ पावमानी विलासिनी ।
दिशं रौद्रीं च मे पातु रुद्राणी रुद्ररूपिणी ॥2॥

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा ।
एवं दश दिशो रक्षेत्‌ सर्वांगे भुवनेश्वरी ॥3॥

तत्पदं पातु मे पादौ जंघे मे सवितु पद्म ।
वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च ॥4॥

देवस्य मे तु हृदयं धीमहीति च गल्लयोः ।
धियःपदं च मे नेत्रे यःपदं मे ललाट के ॥5॥

नःपदं पातु मे मूर्ध्नि शियां मे प्रचोदयात्‌ ।
तत्पदं पातु मूर्धानं सकारः पातु भालकम्‌ ॥6॥

चक्षुषी तु विकाराणं तुकास्तु कपोलयोः ।
नासापुटे र्वकारश्च रेकारस्तु मुखे तथा ॥7॥

णिकार ऊर्ध्वं ओष्ठे तु यकारस्त्वधरोष्ठ के ।
आस्यमध्ये भकारस्तु र्गोकारश्चिबुके तथा ॥8॥

देकारः कण्ठदेशे तु वकारः स्कन्धदेश के ।
स्यकारो दक्षिणे हस्ते धीकारो वामहस्त के ॥9॥

मकारो हृदयं रक्षेद्धिकार उदरे तथा ।
धिकारो नाभिदेशे तु योकारस्तु कटिं तथा ॥10॥

गुह्मं रक्षतु योकार ऊरुणी नःपदाक्षरम्‌ ।
प्रकारो जानुनी रक्षेच्चोकारो जंघदेशकम्‌ ॥11॥

दकारो गुल्फदेशेषु याकारः पादयुग्मकम्‌ ।
तकारव्यंजनं चैव देवताभ्यो नमो नमः ॥12॥

इदं तु कवच दिव्यं बद्धवा शत्रून्‌ विनाशयेत्‌ ।
चतुःषष्टिकला विद्या अंगाद्यखिलपातकैः ।
मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति॥13॥

॥ इति गायत्री कवचं संपूर्णम्‌ ॥